2016-2017 基础梵语(一)
补充资料
叶少勇
2016.12.5更新
补充诗歌:
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥१॥
音频下载
रामो राजमणिः सदा विजयते
रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू
रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं
रामस्य दासो ऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे
भो राम मामुद्धर ॥ २ ॥
音频下载
यस्य कस्य तरोर्मूलं येन केनापि मिश्रितम् ।
यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥३॥
音频下载
वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्वैद्यः प्राणान्धनानि च ॥४॥
音频下载
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥५॥
音频下载
==============================
Bhagavadgītā 2.45
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥
traiguṇyaviṣayā vedā
nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho
niryogakṣema ātmavān ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉
यथा वृक्षस्तथा फलम् ॥ १ ॥
यत्र धर्मस्तत्र जयः ॥ २ ॥
लोभः पापस्य कारणम्॥ ३ ॥
भार्याः पुत्राश्च सुलभा ज्ञानं दुर्लभं लोके ॥ ४ ॥
*******************************************
Bhagavadgītā 2.48
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
yogasthaḥ kuru karmāṇi
saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā
samatvaṃ yoga ucyate ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥१॥
音频
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥२॥
音频
अनन्तं शास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालः ॥३॥
注释:
① kutaḥ 疑问副词,从哪里来? ② 第六格可以表“对于……来说”。 ③ darpaṇa [阳] 镜子。
*******************************************
Bhagavadgītā 2.49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥
dūreṇa hy avaraṃ karma
buddhiyogād dhanañjaya |
buddhau śaraṇam anviccha
kṛpaṇāḥ phalahetavaḥ ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉,并标注划线动词的类、语态、时态、人称、数。
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः ॥१॥
音频
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥२॥
音频
शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥३॥
音频
词汇:
udyama [阳] 努力,勤奋。
sidh [动] 成功。
kārya [中] 事业
manoratha [阳] 希望,心愿。
vidvattva [中] 博学多知。
tulya [形] 相同,相似。
kadācana [不变] 任何时候。
sarvatra [不变] 一切地方。
vidvān 完成分词vidvas的单数第一格,智者。
śaradi 在秋天,śarad (秋天)的第七格
varṣā [阴] (复) 雨季。
gṛj [动] 发声
niḥsvana [形] 无声的。
*********************************************
Bhagavadgītā 2.50
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥
buddhiyukto jahātīha
ubhe sukṛtaduṣkṛte
tasmād yogāya yujyasva
yogaḥ karmasu kauśalam ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉。
दूरस्थो ऽपि समीपस्थो यो वै मनसि वर्तते ॥ १ ॥
अधनेभ्यो धनदानं कृत्वा नरपतिः महापुण्यमलभत ॥ २ ॥
धर्मो हतो हन्ति धर्मो रक्षति रक्षितः ॥ ३ ॥
मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत्॥ ४ ॥
ईश्वरशक्त्या मृतजना अपि जीविष्यन्ति ॥ ५ ॥
词汇:
samīpa [中] 附近,身边。
vṛt [动1] vartate 存在,转动。
puṇya [中] 福德。
rakṣ [动1] rakṣati 保护。
prakāś [动1] 使动:prakāśayati 显示,展示。
śakti [阴] 能力,力量。
*********************************************
Bhagavadgītā 2.51
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥
karmajaṃ buddhiyuktā hi
phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ
padaṃ gacchanty anāmayam ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉
बुद्धः सत्त्वान्संसारान्निर्वाणं नयति ॥ १ ॥
लोके को ऽप्युत्थितः पतति को ऽपि पतितो ऽप्युत्तिष्ठते ॥ २ ॥
यदात्मनः प्रतिकूलं न तत्परस्य संदधासि ॥ ३ ॥
सर्वपापस्याकरणं कुशलस्योपसम्पदः ।
स्वचित्तपर्यवदनमेतद्बुद्धस्य शासनम् ॥ ४ ॥
एवं मया श्रुतम् ॥ ५ ॥
词汇:
sattva [阳] 众生。
saṃsāra [阳] 生死轮回。
utthita ut-√sthā的ppp.
para [阳] 他人。
upasampada [阳] 到达,行至。
paryavadāna [中] 净化,清净。
etad 指示代词,中性,单数。
*********************************************
Bhagavadgītā 2.52
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
yadā te mohakalilaṃ
buddhir vyatitariṣyati |
tadā gantāsi nirvedaṃ
śrotavyasya śrutasya ca ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉
गते शोको न कर्तव्यः ॥ १ ॥
भगवानाह तेन हि कुलपुत्र शृणु साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ऽहं ते ॥ २ ॥
सेनापतौ यशो गन्ता
न तु योधान्कथंचन ॥ ३ ॥
सो ऽर्हत्त्वं प्राप्य चिरेण सम्यक्सम्बोधिं प्राप्नोति ॥ ४ ॥
词汇:
sādhu ca suṣṭhu ca 善哉善哉
manasi + √kṛ 思考
kathaṃcana 无论如何
arhat [阳] 阿罗汉
cireṇa [不变] 经过很久
*********************************************
Bhagavadgītā 2.53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ॥
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥
śrutivipratipannā te
yadā sthāsyati niścalā ||
samādhāv acalā buddhis
tadā yogam avāpsyasi ||
念诵 唱颂
徐梵澄译:

补充阅读:
梵文谜语
न तस्यादिर्न तस्यान्तो यो मध्ये तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥
音频
补充作业:
梵译汉
सर्वे ऽत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखितो भवेत् ॥
音频
佛陀故事(一) 音频
******************************************
Bhagavadgītā 2.54
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥
arjuna uvāca
sthitaprajñasya kā bhāṣā
samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta
kim āsīta vrajeta kim ||
念诵 唱颂
徐梵澄译:

补充作业:
佛陀故事(二) 音频
******************************************
Bhagavadgītā 2.55
श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
śrībhagavān uvāca
prajahāti yadā kāmān
sarvān pārtha manogatān
ātmany evātmanā tuṣṭaḥ
sthitaprajñas tadocyate 2.55
念诵 唱颂
徐梵澄译:

补充作业:
佛陀故事(三) 音频
******************************************
Bhagavadgītā 2.56
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥
duḥkheṣv anudvignamanāḥ
sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ
sthitadhīr munir ucyate ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्देशं भृतको यथा ॥१॥
音频
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥२॥
音频
कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
बन्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥३॥
音频
nirdeśa[阳]指示,命令。
varayate, √vṛ 选择
itara [形] 其他的(依代词变格)
******************************************
Bhagavadgītā 2.57
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
yaḥ sarvatrānabhisnehas
tattatprāpya śubhāśubham |
nābhinandati na dveṣṭi
tasya prajñā pratiṣṭhitā ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉
परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः ।
परोपकाराय फलन्ति वृक्षाः परोपकारार्थमिदं शरीरम् ॥१॥ Upendravajrā
音频
येषां रात्रिदिवापाये ह्यायुरल्पतरं भवेत्।
अल्पोदके व मत्स्यानां का नु तेषां रतिर्भवेत्॥२॥
词汇
gāvaḥ ,gau牛, 复数第一格
divā [不变]白天
apāya[阳] 逝去。
āyus [中] 生命
alpatara [形] 更少, alpa的比较级
******************************************
Bhagavadgītā 2.58
यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
yadā saṃharate cāyaṃ
kūrmo ’ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyas
tasya prajñā pratiṣṭhitā ||
念诵 唱颂
徐梵澄译:

补充作业:
梵译汉
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥ Vasantatilakā
词汇
lakṣmī,[阴]幸运女神
daiva[中] 命运。
kāpuruṣa[阳]懦夫。
pauruṣa [中]大丈夫气概,伟业。
भोगा न भुक्ता वयमेव भुक्तास् तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास् तृष्णा न जीर्णा वयमेव जीर्णाः ॥ Indravajrā
音频
******************************************
Bhagavadgītā 2.59
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसो ऽप्यस्य परं दृष्ट्वा निवर्तते ॥
viṣayā vinivartante
nirāhārasya dehinaḥ |
rasavarjaṃ raso ’py asya
paraṃ dṛṣṭvā nivartate ||
念诵 唱颂
徐梵澄译:

阅读:
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥
音频1 音频2
补充作业:
梵译汉
यदा किंचिज्ज्ञो ऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्यभवदवलिप्तं मम मनः यदा किंचित्किंचिद्बुधजनसकाशादवगतं तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ॥ Śikhariṇī
音频
अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा । सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ ॥ Drutavilambita
音频
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्यपटुता युधि विक्रमः । यशसि चाभिरतिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ॥ Drutavilambita
音频
|